॥ ॐ श्री गणपतये नमः ॥

२० सर्गः

इति ब्रुवति रामे तु लक्ष्मणोऽधःशिरा मुहुःश्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः

तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभनिशश्वास महासर्पो बिलस्थ इव रोषितः

तस्य दुष्प्रतिवीक्ष्यं तद्भ्रुकुटीसहितं तदाबभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्

अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनःतिर्यगूर्ध्वं शरीरे पातयित्वा शिरोधराम्

अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्अस्थाने संभ्रमो यस्य जातो वै सुमहानयम्

धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कयाकथं ह्येतदसंभ्रान्तस्त्वद्विधो वक्तुमर्हति

यथा दैवमशौण्डीरं शौण्डीरः क्षत्रियर्षभःकिं नाम कृपणं दैवमशक्तमभिशंससि

पापयोस्ते कथं नाम तयोः शङ्का विद्यतेसन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन्किं बुध्यसे

लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्येनेयमागता द्वैधं तव बुद्धिर्महीपते हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि

यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्तथाप्युपेक्षणीयं ते मे तदपि रोचते१०

विक्लवो वीर्यहीनो यः दैवमनुवर्ततेवीराः संभावितात्मानो दैवं पर्युपासते११

दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् दैवेन विपन्नार्थः पुरुषः सोऽवसीदति१२

द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति१३

अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाःयद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्१४

अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम्प्रधावितमहं दैवं पौरुषेण निवर्तये१५

लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम् कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता१६

यैर्विवासस्तवारण्ये मिथो राजन्समर्थितःअरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा१७

अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तवअभिषेकविघातेन पुत्रराज्याय वर्तते१८

मद्बलेन विरुद्धाय स्याद्दैवबलं तथाप्रभविष्यति दुःखाय यथोग्रं पौरुषं मम१९

ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि२०

पूर्वराजर्षिवृत्त्या हि वनवासो विधीयतेप्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने२१

चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कयानैवमिच्छसि धर्मात्मन्राज्यं राम त्वमात्मनि२२

प्रतिजाने ते वीर मा भूवं वीरलोकभाक्राज्यं तव रक्षेयमहं वेलेव सागरम्२३

मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भवअहमेको महीपालानलं वारयितुं बलात्२४

शोभार्थाविमौ बाहू धनुर्भूषणाय मेनासिराबन्धनार्थाय शराः स्तम्भहेतवः२५

अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम२६

असिना तीक्ष्णधारेण विद्युच्चलितवर्चसाप्रगृहीतेन वै शत्रुं वज्रिणं वा कल्पये२७

खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा मेहस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही२८

खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयःपतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः२९

बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासनेकथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते३०

बहुभिश्चैकमत्यस्यन्नेकेन बहूञ्जनान्विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु३१

अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यतिराज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं तव प्रभो३२

अद्य चन्दनसारस्य केयूरामोक्षणस्य वसूनां विमोक्षस्य सुहृदां पालनस्य ३३

अनुरूपाविमौ बाहू राम कर्म करिष्यतःअभिषेचनविघ्नस्य कर्तॄणां ते निवारणे३४

ब्रवीहि कोऽद्यैव मया वियुज्यतांतवासुहृत्प्राणयशः सुहृज्जनैःयथा तवेयं वसुधा वशे भवेत्तथैव मां शाधि तवास्मि किंकरः३५

विमृज्य बाष्पं परिसान्त्व्य चासकृत्स लक्ष्मणं राघववंशवर्धनःउवाच पित्र्ये वचने व्यवस्थितंनिबोध मामेष हि सौम्य सत्पथः३६

इति श्रीरामायणे अयोध्याकाण्डे विंशतितमः सर्गः२०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved