॥ ॐ श्री गणपतये नमः ॥

१८ सर्गः

तथा तु विलपन्तीं तां कौसल्यां राममातरम्उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः

रोचते ममाप्येतदार्ये यद्राघवो वनम्त्यक्त्वा राज्यश्रियं गच्छेत्स्त्रिया वाक्यवशं गतः

विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितःनृपः किमिव ब्रूयाच्चोद्यमानः समन्मथः

नास्यापराधं पश्यामि नापि दोषं तथा विधम्येन निर्वास्यते राष्ट्राद्वनवासाय राघवः

तं पश्याम्यहं लोके परोक्षमपि यो नरःअमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्

देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात्

तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषःपुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन्

यावदेव जानाति कश्चिदर्थमिमं नरःतावदेव मया सार्धमात्मस्थं कुरु शासनम्

मया पार्श्वे सधनुषा तव गुप्तस्य राघवकः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः

निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभकरिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये१०

भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छतिसर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते११

त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्कस्य शक्तिः श्रियं दातुं भरतायारिशासन१२

अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतःसत्येन धनुषा चैव दत्तेनेष्टेन ते शपे१३

दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यतेप्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय१४

हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितःदेवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु१५

एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनःउवाच रामं कौसल्या रुदन्ती शोकलालसा१६

भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वयायदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते१७

चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्विहाय शोकसंतप्तां गन्तुमर्हसि मामितः१८

धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसिशुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्१९

शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन्परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः२०

यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्त्वां नाहमनुजानामि गन्तव्यमितो वनम्२१

त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वात्वया सह मम श्रेयस्तृणानामपि भक्षणम्२२

यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्अहं प्रायमिहासिष्ये हि शक्ष्यामि जीवितुम्२३

ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः२४

विलपन्तीं तथा दीनां कौसल्यां जननीं ततःउवाच रामो धर्मात्मा वचनं धर्मसंहितम्२५

नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं ममप्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम्२६

ऋषिणा पितुर्वाक्यं कुर्वता व्रतचारिणागौर्हता जानता धर्मं कण्डुनापि विपश्चिता२७

अस्माकं कुले पूर्वं सगरस्याज्ञया पितुःखनद्भिः सागरैर्भूतिमवाप्तः सुमहान्वधः२८

जामदग्न्येन रामेण रेणुका जननी स्वयम्कृत्ता परशुनारण्ये पितुर्वचनकारिणा२९

खल्वेतन्मयैकेन क्रियते पितृशासनम्पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते३०

तदेतत्तु मया कार्यं क्रियते भुवि नान्यथापितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते३१

तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्अभिप्रायमविज्ञाय सत्यस्य शमस्य ३२

धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम्३३

संश्रुत्य पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता३४

सोऽहं शक्ष्यामि पितुर्नियोगमतिवर्तितुम्पितुर्हि वचनाद्वीर कैकेय्याहं प्रचोदितः३५

तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम्३६

तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजःउवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः३७

अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मेतीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम्३८

यशो ह्यहं केवलराज्यकारणान्न पृष्ठतः कर्तुमलं महोदयम्अदीर्घकाले तु देवि जीवितेवृणेऽवरामद्य महीमधर्मतः३९

प्रसादयन्नरवृषभः मातरंपराक्रमाज्जिगमिषुरेव दण्डकान्अथानुजं भृशमनुशास्य दर्शनंचकार तां हृदि जननीं प्रदक्षिणम्४०

इति श्रीरामायणे अयोध्याकाण्डे अष्टादशः सर्गः१८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved