स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः।अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम्॥ १
स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्।राजमार्गं ययौ रामो मध्येनागरुधूपितम्॥ २
शोभमानमसंबाधं तं राजपथमुत्तमम्।संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि॥ ३
आशीर्वादान्बहूञ्शृण्वन्सुहृद्भिः समुदीरितान्।यथार्हं चापि संपूज्य सर्वानेव नरान्ययौ॥ ४
पितामहैराचरितं तथैव प्रपितामहैः।अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय॥ ५
यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः।ततः सुखतरं सर्वे रामे वत्स्याम राजनि॥ ६
अलमद्य हि भुक्तेन परमार्थैरलं च नः।यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्॥ ७
अतो हि न प्रियतरं नान्यत्किंचिद्भविष्यति।यथाभिषेको रामस्य राज्येनामिततेजसः॥ ८
एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः।आत्मसंपूजनीः शृण्वन्ययौ रामो महापथम्॥ ९
न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्।नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे॥ १०
सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम्।चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः॥ ११
स राजकुलमासाद्य महेन्द्रभवनोपमम्।राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्॥ १२
स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः।संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमभ्यगात्॥ १३
ततः प्रविष्टे पितुरन्तिकं तदाजनः स सर्वो मुदितो नृपात्मजे।प्रतीक्षते तस्य पुनः स्म निर्गमंयथोदयं चन्द्रमसः सरित्पतिः॥ १४
इति श्रीरामायणे अयोध्याकाण्डे पञ्चदशः सर्गः ॥ १५