स तदन्तःपुरद्वारं समतीत्य जनाकुलम्।प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्॥ १
प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः।अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम्॥ २
तत्र काषायिणो वृद्धान्वेत्रपाणीन्स्वलंकृतान्।ददर्श विष्ठितान्द्वारि स्त्र्यध्यक्षान्सुसमाहितान्॥ ३
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः।सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे॥ ४
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः।तत्रैवानाययामास राघवः प्रियकाम्यया॥ ५
तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम्।दादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे॥ ६
वराहरुधिराभेण शुचिना च सुगन्धिना।अनुलिप्तं परार्ध्येन चन्दनेन परंतपम्॥ ७
स्थितया पार्श्वतश्चापि वालव्यजनहस्तया।उपेतं सीतया भूयश्चित्रया शशिनं यथा॥ ८
तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा।ववन्दे वरदं बन्दी नियमज्ञो विनीतवत्॥ ९
प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने।राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः॥ १०
कौसल्या सुप्रभा देव पिता त्वं द्रष्टुमिच्छति।महिष्या सह कैकेय्या गम्यतां तत्र माचिरम्॥ ११
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः।ततः संमानयामास सीतामिदमुवाच ह॥ १२
देवि देवश्च देवी च समागम्य मदन्तरे।मन्त्रेयेते ध्रुवं किंचिदभिषेचनसंहितम्॥ १३
लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा।संचोदयति राजानं मदर्थं मदिरेक्षणा॥ १४
यादृशी परिषत्तत्र तादृशो दूत आगतः।ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति॥ १५
हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिः।सह त्वं परिवारेण सुखमास्स्व रमस्य च॥ १६
पतिसंमानिता सीता भर्तारमसितेक्षणा।आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी॥ १७
स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च।ततः पावकसंकाशमारुरोह रथोत्तमम्॥ १८
मुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसम्।करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः॥ १९
हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्।प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया॥ २०
स पर्जन्य इवाकाशे स्वनवानभिनादयन्।निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः॥ २१
छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः।जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः॥ २२
ततो हलहलाशब्दस्तुमुलः समजायत।तस्य निष्क्रममाणस्य जनौघस्य समन्ततः॥ २३
स राघवस्तत्र कथाप्रलापंशुश्राव लोकस्य समागतस्य।आत्माधिकारा विविधाश्च वाचःप्रहृष्टरूपस्य पुरे जनस्य॥ २४
एष श्रियं गच्छति राघवोऽद्यराजप्रसादाद्विपुलां गमिष्यन्।एते वयं सर्वसमृद्धकामायेषामयं नो भविता प्रशास्ता।लाभो जनस्यास्य यदेष सर्वंप्रपत्स्यते राष्ट्रमिदं चिराय॥ २५
स घोषवद्भिश्च हयैः सनागैःपुरःसरैः स्वस्तिकसूतमागधैः।महीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ॥ २६
करेणुमातङ्गरथाश्वसंकुलंमहाजनौघैः परिपूर्णचत्वरम्।प्रभूतरत्नं बहुपण्यसंचयंददर्श रामो रुचिरं महापथम्॥ २७
इति श्रीरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः ॥ १४