॥ ॐ श्री गणपतये नमः ॥

१० सर्गः

आज्ञाप्य तु महाराजो राघवस्याभिषेचनम्प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी

तां तत्र पतितां भूमौ शयानामतथोचिताम्प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः

वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम्अपापः पापसंकल्पां ददर्श धरणीतले

करेणुमिव दिग्धेन विद्धां मृगयुणा वनेमहागज इवारण्ये स्नेहात्परिममर्श ताम्

परिमृश्य पाणिभ्यामभिसंत्रस्तचेतनःकामी कमलपत्राक्षीमुवाच वनितामिदम्

तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्देवि केनाभियुक्तासि केन वासि विमानिता

यदिदं मम दुःखाय शेषे कल्याणि पांसुषुभूमौ शेषे किमर्थं त्वं मयि कल्याण चेतसिभूतोपहतचित्तेव मम चित्तप्रमाथिनी

सन्ति मे कुशला वैद्या अभितुष्टाश्च सर्वशःसुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि

कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम्कः प्रियं लभतामद्य को वा सुमहदप्रियम्

अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम्दरिद्रः को भवत्वाढ्यो द्रव्यवान्वाप्यकिंचनः१०

अहं चैव मदीयाश्च सर्वे तव वशानुगाः ते कंचिदभिप्रायं व्याहन्तुमहमुत्सहे११

आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसियावदावर्तते चक्रं तावती मे वसुंधरा१२

तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्परिपीडयितुं भूयो भर्तारमुपचक्रमे१३

नास्मि विप्रकृता देव केनचिन्न विमानिताअभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम्१४

प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसिअथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया१५

एवमुक्तस्तया राजा प्रियया स्त्रीवशं गतःतामुवाच महातेजाः कैकेयीमीषदुत्स्मितः१६

अवलिप्ते जानासि त्वत्तः प्रियतरो मममनुजो मनुजव्याघ्राद्रामादन्यो विद्यते१७

भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मेएतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे१८

बलमात्मनि पश्यन्ती मां शङ्कितुमर्हसिकरिष्यामि तव प्रीतिं सुकृतेनापि ते शपे१९

तेन वाक्येन संहृष्टा तमभिप्रायमात्मनःव्याजहार महाघोरमभ्यागतमिवान्तकम्२०

यथाक्रमेण शपसि वरं मम ददासि तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः सेन्द्रपुरोगमाः२१

चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशःजगच्च पृथिवी चैव सगन्धर्वा सराक्षसा२२

निशाचराणि भूतानि गृहेषु गृहदेवताःयानि चान्यानि भूतानि जानीयुर्भाषितं तव२३

सत्यसंधो महातेजा धर्मज्ञः सुसमाहितःवरं मम ददात्येष तन्मे शृण्वन्तु देवताः२४

इति देवी महेष्वासं परिगृह्याभिशस्य ततः परमुवाचेदं वरदं काममोहितम्२५

वरौ यौ मे त्वया देव तदा दत्तौ महीपतेतौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः२६

अभिषेकसमारम्भो राघवस्योपकल्पितःअनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम्२७

नव पञ्च वर्षाणि दण्डकारण्यमाश्रितःचीराजिनजटाधारी रामो भवतु तापसः२८

भरतो भजतामद्य यौवराज्यमकण्टकम्अद्य चैव हि पश्येयं प्रयान्तं राघवं वने२९

ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचःव्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः३०

असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन्अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपःमोहमापेदिवान्भूयः शोकोपहतचेतनः३१

चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितःकैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा३२

नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनिकिं कृतं तव रामेण पापे पापं मयापि वा३३

सदा ते जननी तुल्यां वृत्तिं वहति राघवःतस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता३४

त्वं मयात्मविनाशाय भवनं स्वं प्रवेशिताअविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा३५

जीवलोको यदा सर्वो रामस्येह गुणस्तवम्अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्३६

कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम्जीवितं वात्मनो रामं त्वेव पितृवत्सलम्३७

परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम्अपश्यतस्तु मे रामं नष्टा भवति चेतना३८

तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना तु रामं विना देहे तिष्ठेत्तु मम जीवितम्३९

तदलं त्यज्यतामेष निश्चयः पापनिश्चयेअपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे४०

भूमिपालो विलपन्ननाथवत्स्त्रिया गृहीतो हृदयेऽतिमात्रतापपात देव्याश्चरणौ प्रसारितावुभावसंस्पृश्य यथातुरस्तथा४१

इति श्रीरामायणे अयोध्याकाण्डे दशमः सर्गः१०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved