॥ ॐ श्री गणपतये नमः ॥

सर्गः

ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिताप्रासादं चन्द्रसंकाशमारुरोह यदृच्छया

सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम्अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत

पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम्सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्वृताम्

अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थराउत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती

राममाता धनं किं नु जनेभ्यः संप्रयच्छतिअतिमात्रं प्रहर्षोऽयं किं जनस्य शंस मेकारयिष्यति किं वापि संप्रहृष्टो महीपतिः

विदीर्यमाणा हर्षेण धात्री परमया मुदाआचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम्

श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम्राजा दशरथो राममभिषेचयितानघम्

धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिताकैलास शिखराकारात्प्रासादादवरोहत

सा दह्यमाना कोपेन मन्थरा पापदर्शिनीशयानामेत्य कैकेयीमिदं वचनमब्रवीत्

उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्ततेउपप्लुतमहौघेन किमात्मानं बुध्यसे१०

अनिष्टे सुभगाकारे सौभाग्येन विकत्थसेचलं हि तव सौभाग्यं नद्यः स्रोत इवोष्णगे११

एवमुक्ता तु कैकेयी रुष्टया परुषं वचःकुब्जया पापदर्शिन्या विषादमगमत्परम्१२

कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं मन्थरेविषण्णवदनां हि त्वां लक्षये भृशदुःखिताम्१३

मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा१४

सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणीविषादयन्ती प्रोवाच भेदयन्ती राघवम्१५

अक्षेमं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम्रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति१६

सास्म्यगाधे भये मग्ना दुःखशोकसमन्वितादह्यमानानलेनेव त्वद्धितार्थमिहागता१७

तव दुःखेन कैकेयि मम दुःखं महद्भवेत्त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र संशयः१८

नराधिपकुले जाता महिषी त्वं महीपतेःउग्रत्वं राजधर्माणां कथं देवि बुध्यसे१९

धर्मवादी शठो भर्ता श्लक्ष्णवादी दारुणःशुद्धभावे जानीषे तेनैवमतिसंधिता२०

उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति२१

अपवाह्य दुष्टात्मा भरतं तव बन्धुषुकाल्यं स्थापयिता रामं राज्ये निहतकण्टके२२

शत्रुः पतिप्रवादेन मात्रेव हितकाम्ययाआशीविष इवाङ्केन बाले परिधृतस्त्वया२३

यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितःराज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता२४

पापेनानृतसान्त्वेन बाले नित्यं सुखोचितेरामं स्थापयता राज्ये सानुबन्धा हता ह्यसि२५

सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तवत्रायस्व पुत्रमात्मानं मां विस्मयदर्शने२६

मन्थराया वचः श्रुत्वा शयनात्सा शुभाननाएकमाभरणं तस्यै कुब्जायै प्रददौ शुभम्२७

दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमाकैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम्२८

इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम्एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते२९

रामे वा भरते वाहं विशेषं नोपलक्षयेतस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति३०

मे परं किंचिदितस्त्वया पुनःप्रियं प्रियार्हे सुवचं वचो वरम्तथा ह्यवोचस्त्वमतः प्रियोत्तरंवरं परं ते प्रददामि तं वृणु३१

इति श्रीरामायणे अयोध्याकाण्डे सप्तमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved