॥ ॐ श्री गणपतये नमः ॥

सर्गः

गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिःमन्त्रयित्वा ततश्चक्रे निश्चयज्ञः निश्चयम्

श्व एव पुष्यो भविता श्वोऽभिषेच्येत मे सुतःरामो राजीवताम्राक्षो यौवराज्य इति प्रभुः

अथान्तर्गृहमाविश्य राजा दशरथस्तदासूतमाज्ञापयामास रामं पुनरिहानय

प्रतिगृह्य तद्वाक्यं सूतः पुनरुपाययौरामस्य भवनं शीघ्रं राममानयितुं पुनः

द्वाःस्थैरावेदितं तस्य रामायागमनं पुनःश्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत्

प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत्यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः

तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छतिश्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा

इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितःप्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम्

तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपःप्रवेशयामास गृहं विविक्षुः प्रियमुत्तमम्

प्रविशन्नेव श्रीमान्राघवो भवनं पितुःददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः१०

प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपःप्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत्११

राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताःअन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः१२

जातमिष्टमपत्यं मे त्वमद्यानुपमं भुविदत्तमिष्टमधीतं मया पुरुषसत्तम१३

अनुभूतानि चेष्टानि मया वीर सुखानि देवर्षि पितृविप्राणामनृणोऽस्मि तथात्मनः१४

किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात्अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि१५

अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक१६

अपि चाद्याशुभान्राम स्वप्नान्पश्यामि दारुणान्सनिर्घाता महोल्काश्च पतन्तीह महास्वनाः१७

अवष्टब्धं मे राम नक्षत्रं दारुणैर्ग्रहैःआवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः१८

प्रायेण हि निमित्तानामीदृशानां समुद्भवेराजा वा मृत्युमाप्नोति घोरां वापदमृच्छति१९

तद्यावदेव मे चेतो विमुह्यति राघवतावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः२०

अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसुम्श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः२१

तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम्श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप२२

तस्मात्त्वयाद्य व्रतिना निशेयं नियतात्मनासह वध्वोपवस्तव्या दर्भप्रस्तरशायिना२३

सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततःभवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि२४

विप्रोषितश्च भरतो यावदेव पुरादितःतावदेवाभिषेकस्ते प्राप्तकालो मतो मम२५

कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितःज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः२६

किं तु चित्तं मनुष्याणामनित्यमिति मे मतिःसतां धर्मनित्यानां कृतशोभि राघव२७

इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचनेव्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम्२८

प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचनेतस्मिन्क्षणे विनिर्गत्य मातुरन्तःपुरं ययौ२९

तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्वाग्यतां देवतागारे ददर्श याचतीं श्रियम्३०

प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथासीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम्३१

तस्मिन्काले हि कौसल्या तस्थावामीलितेक्षणासुमित्रयान्वास्यमाना सीतया लक्ष्मणेन ३२

श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम्प्राणायामेन पुरुषं ध्यायमाना जनार्दनम्३३

तथा सनियमामेव सोऽभिगम्याभिवाद्य उवाच वचनं रामो हर्षयंस्तामिदं तदा३४

अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणिभविता श्वोऽभिषेको मे यथा मे शासनं पितुः३५

सीतयाप्युपवस्तव्या रजनीयं मया सहएवमृत्विगुपाध्यायैः सह मामुक्तवान्पिता३६

यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचनेतानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय३७

एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम्हर्षबाष्पकलं वाक्यमिदं राममभाषत३८

वत्स राम चिरं जीव हतास्ते परिपन्थिनःज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय३९

कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रकयेन त्वया दशरथो गुणैराराधितः पिता४०

अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणेयेयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति४१

इत्येवमुक्तो मात्रेदं रामो भारतमब्रवीत्प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव४२

लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम्द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता४३

सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान्राज्यफलानि जीवितं हि राज्यं त्वदर्थमभिकामये४४

इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य अभ्यनुज्ञाप्य सीतां जगाम स्वं निवेशनम्४५

इति श्रीरामायणे अयोध्याकाण्डे चतुर्थः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved