॥ ॐ श्री गणपतये नमः ॥

७३ सर्गः

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिःआपृच्छ्य तौ राजानौ जगामोत्तरपर्वतम्

विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम्आपृच्छ्याथ जगामाशु राजा दशरथः पुरीम्

अथ राजा विदेहानां ददौ कन्याधनं बहुगवां शतसहस्राणि बहूनि मिथिलेश्वरः

कम्बलानां मुख्यानां क्षौमकोट्यम्बराणि हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम्

ददौ कन्या पिता तासां दासीदासमनुत्तमम्हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य

ददौ परमसंहृष्टः कन्याधनमनुत्तमम्दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम्

प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरःराजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः

ऋषीन्सर्वान्पुरस्कृत्य जगाम सबलानुगःगच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम्

घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततःभौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्

तान्दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छतअसौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाःकिमिदं हृदयोत्कम्पि मनो मम विषीदति१०

राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिःउवाच मधुरां वाणीं श्रूयतामस्य यत्फलम्११

उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम्१२

तेषां संवदतां तत्र वायुः प्रादुर्बभूव कम्पयन्मेदिनीं सर्वां पातयंश्च द्रुमाञ्शुभान्१३

तमसा संवृतः सूर्यः सर्वा प्रबभुर्दिशःभस्मना चावृतं सर्वं संमूढमिव तद्बलम्१४

वसिष्ठ ऋषयश्चान्ये राजा ससुतस्तदाससंज्ञा इव तत्रासन्सर्वमन्यद्विचेतनम्१५

तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूःददर्श भीमसंकाशं जटामण्डलधारिणम्१६

कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम्ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः१७

स्कन्धे चासज्य परशुं धनुर्विद्युद्गणोपमम्प्रगृह्य शरमुख्यं त्रिपुरघ्नं यथा हरम्१८

तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम्वसिष्ठप्रमुखा विप्रा जपहोमपरायणाःसंगता मुनयः सर्वे संजजल्पुरथो मिथः१९

कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यतिपूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरःक्षत्रस्योत्सादनं भूयो खल्वस्य चिकीर्षितम्२०

एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम्ऋषयो राम रामेति मधुरां वाचमब्रुवन्२१

प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत२२

इति श्रीरामायणे बालकाण्डे त्रिसप्ततितमः सर्गः७३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved