॥ ॐ श्री गणपतये नमः ॥

७१ सर्गः

तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिःउवाच वचनं वीरं वसिष्ठसहितो नृपम्

अचिन्त्यान्यप्रमेयानि कुलानि नरपुंगवइक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन

सदृशो धर्मसंबन्धः सदृशो रूपसंपदारामलक्ष्मणयो राजन्सीता चोर्मिलया सह

वक्तव्यं नरश्रेष्ठ श्रूयतां वचनं मम

भ्राता यवीयान्धर्मज्ञ एष राजा कुशध्वजःअस्य धर्मात्मनो राजन्रूपेणाप्रतिमं भुविसुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे

भरतस्य कुमारस्य शत्रुघ्नस्य धीमतःवरयेम सुते राजंस्तयोरर्थे महात्मनोः

पुत्रा दशरथस्येमे रूपयौवनशालिनःलोकपालोपमाः सर्वे देवतुल्यपराक्रमाः

उभयोरपि राजेन्द्र संबन्धेनानुबध्यताम्इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः

विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदाजनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ

सदृशं कुलसंबन्धं यदाज्ञापयथः स्वयम्एवं भवतु भद्रं वः कुशध्वजसुते इमेपत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ१०

एकाह्ना राजपुत्रीणां चतसृणां महामुनेपाणीन्गृह्णन्तु चत्वारो राजपुत्रा महाबलाः११

उत्तरे दिवसे ब्रह्मन्फल्गुनीभ्यां मनीषिणःवैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः१२

एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिःउभौ मुनिवरौ राजा जनको वाक्यमब्रवीत्१३

परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदाइमान्यासनमुख्यानि आसेतां मुनिपुंगवौ१४

यथा दशरथस्येयं तथायोध्या पुरी ममप्रभुत्वे नासित्संदेहो यथार्हं कर्तुमर्हथः१५

तथा ब्रुवति वैदेहे जनके रघुनन्दनःराजा दशरथो हृष्टः प्रत्युवाच महीपतिम्१६

युवामसंख्येय गुणौ भ्रातरौ मिथिलेश्वरौऋषयो राजसंघाश्च भवद्भ्यामभिपूजिताः१७

स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम्श्राद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत्१८

तमापृष्ट्वा नरपतिं राजा दशरथस्तदामुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः१९

गत्वा निलयं राजा श्राद्धं कृत्वा विधानतःप्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम्२०

गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपःएकैकशो ददौ राजा पुत्रानुद्धिश्य धर्मतः२१

सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदोहनाःगवां शतसहस्राणि चत्वारि पुरुषर्षभः२२

वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनःददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः२३

सुतैः कृतगोदानैर्वृतश्च नृपतिस्तदालोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः२४

इति श्रीरामायणे बालकाण्डे एकसप्ततितमः सर्गः७१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved