॥ ॐ श्री गणपतये नमः ॥

७० सर्गः

एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिःश्रोतुमर्हसि भद्रं ते कुलं नः कीर्तितं परम्

प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतःवक्तव्यं कुलजातेन तन्निबोध महामुने

राजाभूत्त्रिषु लोकेषु विश्रुतः स्वेन कर्मणानिमिः परमधर्मात्मा सर्वसत्त्ववतां वरः

तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकःप्रथमो जनको नाम जनकादप्युदावसुः

उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनःनन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामतः

सुकेतोरपि धर्मात्मा देवरातो महाबलःदेवरातस्य राजर्षेर्बृहद्रथ इति श्रुतः

बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्महावीरस्य धृतिमान्सुधृतिः सत्यविक्रमः

सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकःधृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकःप्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः

पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतःदेवमीढस्य विबुधो विबुधस्य महीध्रकः१०

महीध्रकसुतो राजा कीर्तिरातो महाबलःकीर्तिरातस्य राजर्षेर्महारोमा व्यजायत११

महारोंणस्तु धर्मात्मा स्वर्णरोमा व्यजायतस्वर्णरोंणस्तु राजर्षेर्ह्रस्वरोमा व्यजायत१२

तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनःज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः१३

मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपःकुशध्वजं समावेश्य भारं मयि वनं गतः१४

वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्भ्रातरं देवसंकाशं स्नेहात्पश्यन्कुशध्वजम्१५

कस्यचित्त्वथ कालस्य सांकाश्यादगमत्पुरात्सुधन्वा वीर्यवान्राजा मिथिलामवरोधकः१६

मे प्रेषयामास शैवं धनुरनुत्तमम्सीता कन्या पद्माक्षी मह्यं वै दीयतामिति१७

तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह हतोऽभिमुखो राजा सुधन्वा तु मया रणे१८

निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम्१९

कनीयानेष मे भ्राता अहं ज्येष्ठो महामुनेददामि परमप्रीतो वध्वौ ते मुनिपुंगव२०

सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम्२१

द्वितीयामूर्मिलां चैव त्रिर्वदामि संशयःददामि परमप्रीतो वध्वौ ते रघुनन्दन२२

रामलक्ष्मणयो राजन्गोदानं कारयस्व पितृकार्यं भद्रं ते ततो वैवाहिकं कुरु२३

मघा ह्यद्य महाबाहो तृतीये दिवसे प्रभोफल्गुन्यामुत्तरे राजंस्तस्मिन्वैवाहिकं कुरुरामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम्२४

इति श्रीरामायणे बालकाण्डे सप्ततितमः सर्गः७०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved