॥ ॐ श्री गणपतये नमः ॥

६९ सर्गः

ततः प्रभाते जनकः कृतकर्मा महर्षिभिःउवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम्

भ्राता मम महातेजा यवीयानतिधार्मिकःकुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्

वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम्

तमहं द्रष्टुमिच्छामि यज्ञगोप्ता मे मतःप्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह

शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिःसमानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा

आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः

ददर्श महात्मानं जनकं धर्मवत्सलम्सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम्

राजार्हं परमं दिव्यमासनं चाध्यरोहतउपविष्टावुभौ तौ तु भ्रातरावमितौजसौ

प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम्आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम्

औपकार्यां गत्वा तु रघूणां कुलवर्धनम्ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्१०

अयोध्याधिपते वीर वैदेहो मिथिलाधिपः त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्११

मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदासबन्धुरगमत्तत्र जनको यत्र वर्तते१२

राजा मन्त्रिसहितः सोपाध्यायः सबान्धवःवाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्१३

विदितं ते महाराज इक्ष्वाकुकुलदैवतम्वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः१४

विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिःएष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्१५

तूष्णींभूते दशरथे वसिष्ठो भगवानृषिःउवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोहितम्१६

अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययःतस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः१७

विवस्वान्कश्यपाज्जज्ञे मनुर्वैवैस्वतः स्मृतःमनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः१८

तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्इक्ष्वाकोस्तु सुतः श्रीमान्विकुक्षिरुदपद्यत१९

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्बाणस्य तु महातेजा अनरण्यः प्रतापवान्२०

अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोः सुतःत्रिशङ्कोरभवत्पुत्रो धुन्धुमारो महायशाः२१

धुन्धुमारान्महातेजा युवनाश्वो महारथःयुवनाश्वसुतः श्रीमान्मान्धाता पृथिवीपतिः२२

मान्धातुस्तु सुतः श्रीमान्सुसंधिरुदपद्यतसुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित्२३

यशस्वी ध्रुवसंधेस्तु भरतो नाम नामतःभरतात्तु महातेजा असितो नाम जायत२४

सह तेन गरेणैव जातः सगरोऽभवत्सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्२५

दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथःभगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्तथा२६

रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकःकल्माषपादो ह्यभवत्तस्माज्जातस्तु शङ्खणः२७

सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः२८

मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात्अम्बरीषस्य पुत्रोऽभून्नहुषः पृथिवीपतिः२९

नहुषस्य ययातिस्तु नाभागस्तु ययातिजःनाभागस्य बभूवाज अजाद्दशरथोऽभवत्तस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ३०

आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्३१

रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृपसदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि३२

इति श्रीरामायणे बालकाण्डे एकोनसप्ततितमः सर्गः६९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved