॥ ॐ श्री गणपतये नमः ॥

६२ सर्गः

पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्अभ्यागच्छन्सुराः सर्वे तपःफलचिकीर्षवः

अब्रवीत्सुमहातेजा ब्रह्मा सुरुचिरं वचःऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः

तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात्विश्वामित्रो महातेजा भूयस्तेपे महत्तपः

ततः कालेन महता मेनका परमाप्सराःपुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे

तां ददर्श महातेजा मेनकां कुशिकात्मजःरूपेणाप्रतिमां तत्र विद्युतं जलदे यथा

दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत्अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमेअनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम्

इत्युक्ता सा वरारोहा तत्रावासमथाकरोत्तपसो हि महाविघ्नो विश्वामित्रमुपागतः

तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च राघवविश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः

अथ काले गते तस्मिन्विश्वामित्रो महामुनिःसव्रीड इव संवृत्तश्चिन्ताशोकपरायणः

बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दनसर्वं सुराणां कर्मैतत्तपोऽपहरणं महत्१०

अहोरात्रापदेशेन गताः संवत्सरा दशकाममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः११

विनिःश्वसन्मुनिवरः पश्चात्तापेन दुःखितः१२

भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजःउत्तरं पर्वतं राम विश्वामित्रो जगाम १३

कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाःकौशिकीतीरमासाद्य तपस्तेपे सुदारुणम्१४

तस्य वर्षसहस्रं तु घोरं तप उपासतःउत्तरे पर्वते राम देवतानामभूद्भयम्१५

अमन्त्रयन्समागम्य सर्वे सर्षिगणाः सुराःमहर्षिशब्दं लभतां साध्वयं कुशिकात्मजः१६

देवतानां वचः श्रुत्वा सर्वलोकपितामहःअब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्१७

महर्षे स्वागतं वत्स तपसोग्रेण तोषितःमहत्त्वमृषिमुख्यत्वं ददामि तव कौशिक१८

ब्रह्मणः वचः श्रुत्वा विश्वामित्रस्तपोधनःप्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्१९

ब्रह्मर्षि शब्दमतुलं स्वार्जितैः कर्मभिः शुभैःयदि मे भगवानाह ततोऽहं विजितेन्द्रियः२०

तमुवाच ततो ब्रह्मा तावत्त्वं जितेन्द्रियःयतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः२१

विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिःऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्२२

धर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयःशिशिरे सलिलस्थायी रात्र्यहानि तपोधनः२३

एवं वर्षसहस्रं हि तपो घोरमुपागमत्२४

तस्मिन्संतप्यमाने तु विश्वामित्रे महामुनौसंभ्रमः सुमहानासीत्सुराणां वासवस्य २५

रम्भामप्सरसं शक्रः सह सर्वैर्मरुद्गणैःउवाचात्महितं वाक्यमहितं कौशिकस्य २६

इति श्रीरामायणे बालकाण्डे द्विषष्टितमः सर्गः६२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved