॥ ॐ श्री गणपतये नमः ॥

५६ सर्गः

ततः संतप्तहृदयः स्मरन्निग्रहमात्मनःविनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना

दक्षिणां दिशं गत्वा महिष्या सह राघवतताप परमं घोरं विश्वामित्रो महातपाःफलमूलाशनो दान्तश्चचार परमं तपः

अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाःहविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः

पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहःअब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्

जिता राजर्षिलोकास्ते तपसा कुशिकात्मजअनेन तपसा त्वां हि राजर्षिरिति विद्महे

एवमुक्त्वा महातेजा जगाम सह दैवतैःत्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः

विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखःदुःखेन महताविष्टः समन्युरिदमब्रवीत्

तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुःदेवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम्

एवं निश्चित्य मनसा भूय एव महातपाःतपश्चचार काकुत्स्थ परमं परमात्मवान्

एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियःत्रिशङ्कुरिति विख्यात इक्ष्वाकु कुलनन्दनः१०

तस्य बुद्धिः समुत्पन्ना यजेयमिति राघवगच्छेयं स्वशरीरेण देवानां परमां गतिम्११

वसिष्ठं समाहूय कथयामास चिन्तितम्अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना१२

प्रत्याख्यातो वसिष्ठेन ययौ दक्षिणां दिशम्वसिष्ठा दीर्घ तपसस्तपो यत्र हि तेपिरे१३

त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम्वसिष्ठपुत्रान्ददृशे तप्यमानान्यशस्विनः१४

सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्अभिवाद्यानुपूर्व्येण ह्रिया किंचिदवाङ्मुखःअब्रवीत्सुमहातेजाः सर्वानेव कृताञ्जलिः१५

शरणं वः प्रपद्येऽहं शरण्याञ्शरणागतःप्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना१६

यष्टुकामो महायज्ञं तदनुज्ञातुमर्थथगुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये१७

शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान्ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताःसशरीरो यथाहं हि देवलोकमवाप्नुयाम्१८

प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाःगुरुपुत्रानृते सर्वान्नाहं पश्यामि कांचन१९

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिःतस्मादनन्तरं सर्वे भवन्तो दैवतं मम२०

इति श्रीरामायणे बालकाण्डे षट्पञ्चाशः सर्गः५६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved