॥ ॐ श्री गणपतये नमः ॥

५५ सर्गः

एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलःआग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत्

वसिष्ठो भगवान्क्रोधादिदं वचनमब्रवीत्

क्षत्रबन्धो स्थितोऽस्म्येष यद्बलं तद्विदर्शयनाशयाम्येष ते दर्पं शस्त्रस्य तव गाधिज

क्व ते क्षत्रियबलं क्व ब्रह्मबलं महत्पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन

तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम्ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा

वारुणं चैव रौद्रं ऐन्द्रं पाशुपतं तथाऐषीकं चापि चिक्षेप रुषितो गाधिनन्दनः

मानवं मोहनं चैव गान्धर्वं स्वापनं तथाजृम्भणं मोहनं चैव संतापनविलापने

शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्ब्रह्मपाशं कालपाशं वारुणं पाशमेव

पिनाकास्त्रं दयितं शुष्कार्द्रे अशनी तथादण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव

धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा१०

शक्तिद्वयं चिक्षेप कङ्कालं मुसलं तथावैद्याधरं महास्त्रं कालास्त्रमथ दारुणम्११

त्रिशूलमस्त्रं घोरं कापालमथ कङ्कणम्एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन१२

वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः१३

तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान्गाधिनन्दनःतदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः१४

देवर्षयश्च संभ्रान्ता गन्धर्वाः समहोरगाःत्रैलोक्यमासीत्संत्रस्तं ब्रह्मास्त्रे समुदीरिते१५

तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसावसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव१६

ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनःत्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम्१७

रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनःमरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः१८

प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतःविधूम इव कालाग्निर्यमदण्ड इवापरः१९

ततोऽस्तुवन्मुनिगणा वसिष्ठं जपतां वरम्अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा२०

निगृहीतस्त्वया ब्रह्मन्विश्वामित्रो महातपाःप्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः२१

एवमुक्तो महातेजाः शमं चक्रे महातपाःविश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत्२२

धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे२३

तदेतत्समवेक्ष्याहं प्रसन्नेन्द्रियमानसःतपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारकम्२४

इति श्रीरामायणे बालकाण्डे पञ्चपञ्चाशः सर्गः५५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved