कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः।तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत॥ १
नीयमाना तु शबला राम राज्ञा महात्मना।दुःखिता चिन्तयामास रुदन्ती शोककर्शिता॥ २
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना।याहं राजभृतैर्दीना ह्रियेयं भृशदुःखिता॥ ३
किं मयापकृतं तस्य महर्षेर्भावितात्मनः।यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः॥ ४
इति सा चिन्तयित्वा तु निःश्वस्य च पुनः पुनः।जगाम वेगेन तदा वसिष्ठं परमौजसं॥ ५
निर्धूय तांस्तदा भृत्याञ्शतशः शत्रुसूदन।जगामानिलवेगेन पादमूलं महात्मनः॥ ६
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्।वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी॥ ७
भगवन्किं परित्यक्ता त्वयाहं ब्रह्मणः सुत।यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः॥ ८
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्।शोकसंतप्तहृदयां स्वसारमिव दुःखिताम्॥ ९
न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया।एष त्वां नयते राजा बलान्मत्तो महाबलः॥ १०
न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः।बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च॥ ११
इयमक्षौहिणीपूर्णा सवाजिरथसंकुला।हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः॥ १२
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्।वचनं वचनज्ञा सा ब्रह्मर्षिममितप्रभम्॥ १३
न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः।ब्रह्मन्ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम्॥ १४
अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः।विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम्॥ १५
नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसंभृताम्।तस्य दर्पं बलं यत्तन्नाशयामि दुरात्मनः॥ १६
इत्युक्तस्तु तया राम वसिष्ठः सुमहायशाः।सृजस्वेति तदोवाच बलं परबलारुजम्॥ १७
तस्या हुम्भारवोत्सृष्टाः पह्लवाः शतशो नृप।नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः॥ १८
स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः।पह्लवान्नाशयामास शस्त्रैरुच्चावचैरपि॥ १९
विश्वामित्रार्दितान्दृष्ट्वा पह्लवाञ्शतशस्तदा।भूय एवासृजद्घोराञ्शकान्यवनमिश्रितान्॥ २०
तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैः।प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसंनिभैः॥ २१
दीर्घासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः।निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः॥ २२
ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह॥ २३
इति श्रीरामायणे बालकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३