॥ ॐ श्री गणपतये नमः ॥

४८ सर्गः

अफलस्तु ततः शक्रो देवानग्निपुरोगमान्अब्रवीत्त्रस्तवदनः सर्षिसंघान्सचारणान्

कुर्वता तपसो विघ्नं गौतमस्य महात्मनःक्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्

अफलोऽस्मि कृतस्तेन क्रोधात्सा निराकृताशापमोक्षेण महता तपोऽस्यापहृतं मया

तन्मां सुरवराः सर्वे सर्षिसंघाः सचारणाःसुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ

शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाःपितृदेवानुपेत्याहुः सह सर्वैर्मरुद्गणैः

अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतःमेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यतिभवतां हर्षणार्थाय ये दास्यन्ति मानवाः

अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताःउत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेदयन्

तदा प्रभृति काकुत्स्थ पितृदेवाः समागताःअफलान्भुञ्जते मेषान्फलैस्तेषामयोजयन्

इन्द्रस्तु मेषवृषणस्तदा प्रभृति राघवगौतमस्य प्रभावेन तपसश्च महात्मनः१०

तदागच्छ महातेज आश्रमं पुण्यकर्मणःतारयैनां महाभागामहल्यां देवरूपिणीम्११

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणःविश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश १२

ददर्श महाभागां तपसा द्योतितप्रभाम्लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः१३

प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिवधूमेनाभिपरीताङ्गीं पूर्णचन्द्रप्रभामिव१४

सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिवमध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव१५

हि गौतमवाक्येन दुर्निरीक्ष्या बभूव त्रयाणामपि लोकानां यावद्रामस्य दर्शनम्१६

राघवौ तु ततस्तस्याः पादौ जगृहतुस्तदास्मरन्ती गौतमवचः प्रतिजग्राह सा तौ१७

पाद्यमर्घ्यं तथातिथ्यं चकार सुसमाहिताप्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा१८

पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनैःगन्धर्वाप्सरसां चापि महानासीत्समागमः१९

साधु साध्विति देवास्तामहल्यां समपूजयन्तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम्२०

गौतमोऽपि महातेजा अहल्यासहितः सुखीरामं संपूज्य विधिवत्तपस्तेपे महातपाः२१

रामोऽपि परमां पूजां गौतमस्य महामुनेःसकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः२२

इति श्रीरामायणे बालकाण्डे अष्टचत्वारिंशः सर्गः४८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved