॥ ॐ श्री गणपतये नमः ॥

३९ सर्गः

देवतानां वचः श्रुत्वा भगवान्वै पितामहःप्रत्युवाच सुसंत्रस्तान्कृतान्तबलमोहितान्

यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतःकापिलं रूपमास्थाय धारयत्यनिशं धराम्

पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनःसगरस्य पुत्राणां विनाशोऽदीर्घजीविनाम्

पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमःदेवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम्

सगरस्य पुत्राणां प्रादुरासीन्महात्मनाम्पृथिव्यां भिद्यमानायां निर्घातसमनिस्वनः

ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम्सहिताः सगराः सर्वे पितरं वाक्यमब्रुवन्

परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताःदेवदानवरक्षांसि पिशाचोरगकिंनराः

पश्यामहेऽश्वं तमश्वहर्तारमेव किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्

तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमःसमन्युरब्रवीद्वाक्यं सगरो रघुनन्दन

भूयः खनत भद्रं वो निर्भिद्य वसुधातलम्अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ१०

पितुर्वचनमास्थाय सगरस्य महात्मनःषष्टिः पुत्रसहस्राणि रसातलमभिद्रवन्११

खन्यमाने ततस्तस्मिन्ददृशुः पर्वतोपमम्दिशागजं विरूपाक्षं धारयन्तं महीतलम्१२

सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दनशिरसा धारयामास विरूपाक्षो महागजः१३

यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजःखेदाच्चालयते शीर्षं भूमिकम्पस्तधा भवेत्१४

तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम्मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम्१५

ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनःदक्षिणस्यामपि दिशि ददृशुस्ते महागजम्१६

महापद्मं महात्मानं सुमहापर्वतोपमम्शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम्१७

ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनःषष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम्१८

पश्चिमायामपि दिशि महान्तमचलोपमम्दिशागजं सौमनसं ददृशुस्ते महाबलाः१९

तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम्खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा२०

उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम्भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम्२१

समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम्षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम्२२

ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम्रोषादभ्यखनन्सर्वे पृथिवीं सगरात्मजाः२३

ददृशुः कपिलं तत्र वासुदेवं सनातनम्हयं तस्य देवस्य चरन्तमविदूरतः२४

ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाःअभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन्२५

अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसिदुर्मेधस्त्वं हि संप्राप्तान्विद्धि नः सगरात्मजान्२६

श्रुत्वा तद्वचनं तेषां कपिलो रघुनन्दनरोषेण महताविष्टो हुंकारमकरोत्तदा२७

ततस्तेनाप्रमेयेन कपिलेन महात्मनाभस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः२८

इति श्रीरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः३९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved