विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दन।उवाच परमप्रीतो मुनिं दीप्तमिवानलम्॥ १
श्रोतुमिछामि भद्रं ते विस्तरेण कथामिमाम्।पूर्वको मे कथं ब्रह्मन्यज्ञं वै समुपाहरत्॥ २
विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव।श्रूयतां विस्तरो राम सगरस्य महात्मनः॥ ३
शंकरश्वशुरो नाम हिमवानचलोत्तमः।विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम्॥ ४
तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम।स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि॥ ५
तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः।अंशुमानकरोत्तात सगरस्य मते स्थितः॥ ६
तस्य पर्वणि तं यज्ञं यजमानस्य वासवः।राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत्॥ ७
ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः।उपाध्याय गणाः सर्वे यजमानमथाब्रुवन्॥ ८
अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते।हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम्॥ ९
यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय नः।तत्तथा क्रियतां राजन्यथाछिद्रः क्रतुर्भवेत्॥ १०
उपाध्याय वचः श्रुत्वा तस्मिन्सदसि पार्थिवः।षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह॥ ११
गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः।मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः॥ १२
तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः।समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत॥ १३
एकैकं योजनं पुत्रा विस्तारमभिगच्छत॥ १४
यावत्तुरगसंदर्शस्तावत्खनत मेदिनीम्।तमेव हयहर्तारं मार्गमाणा ममाज्ञया॥ १५
दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम्।इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम्॥ १६
इत्युक्त्वा हृष्टमनसो राजपुत्रा महाबलाः।जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः॥ १७
योजनायामविस्तारमेकैको धरणीतलम्।बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्भुजैः॥ १८
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः।भिद्यमाना वसुमती ननाद रघुनन्दन॥ १९
नागानां वध्यमानानामसुराणां च राघव।राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत्॥ २०
योजनानां सहस्राणि षष्टिं तु रघुनन्दन।बिभिदुर्धरणीं वीरा रसातलमनुत्तमम्॥ २१
एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः।खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः॥ २२
ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः।संभ्रान्तमनसः सर्वे पितामहमुपागमन्॥ २३
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा।ऊचुः परमसंत्रस्ताः पितामहमिदं वचः॥ २४
भगवन्पृथिवी सर्वा खन्यते सगरात्मजैः।बहवश्च महात्मानो वध्यन्ते जलचारिणः॥ २५
अयं यज्ञहनोऽस्माकमनेनाश्वोऽपनीयते।इति ते सर्वभूतानि निघ्नन्ति सगरात्मजः॥ २६
इति श्रीरामायणे बालकाण्डे अष्टत्रिंशः सर्गः ॥ ३८