ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः।जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत्॥ १
उपायः को वधे तस्य राक्षसाधिपतेः सुराः।यमहं तं समास्थाय निहन्यामृषिकण्टकम्॥ २
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम्।मानुषीं तनुमास्थाय रावणं जहि संयुगे॥ ३
स हि तेपे तपस्तीव्रं दीर्घकालमरिंदम।येन तुष्टोऽभवद्ब्रह्मा लोककृल्लोकपूजितः॥ ४
संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः।नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्॥ ५
अवज्ञाताः पुरा तेन वरदानेन मानवाः।तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परंतप॥ ६
इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान्।पितरं रोचयामास तदा दशरथं नृपम्॥ ७
स चाप्यपुत्रो नृपतिस्तस्मिन्काले महाद्युतिः।अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः॥ ८
ततो वै यजमानस्य पावकादतुलप्रभम्।प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम्॥ ९
कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम्।स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम्॥ १०
शुभलक्षणसंपन्नं दिव्याभरणभूषितम्।शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम्॥ ११
दिवाकरसमाकारं दीप्तानलशिखोपमम्।तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम्॥ १२
दिव्यपायससंपूर्णां पात्रीं पत्नीमिव प्रियाम्।प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव॥ १३
समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम्।प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप॥ १४
ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः।भगवन्स्वागतं तेऽस्तु किमहं करवाणि ते॥ १५
अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत्।राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया॥ १६
इदं तु नरशार्दूल पायसं देवनिर्मितम्।प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम्॥ १७
भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै।तासु त्वं लप्स्यसे पुत्रान्यदर्थं यजसे नृप॥ १८
तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम्।पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम्॥ १९
अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम्।मुदा परमया युक्तश्चकाराभिप्रदक्षिणम्॥ २०
ततो दशरथः प्राप्य पायसं देवनिर्मितम्।बभूव परमप्रीतः प्राप्य वित्तमिवाधनः॥ २१
ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम्।संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत॥ २२
हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ।शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः॥ २३
सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत्।पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः॥ २४
कौसल्यायै नरपतिः पायसार्धं ददौ तदा।अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः।कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात्॥ २५
प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम्।अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः॥ २६
एवं तासां ददौ राजा भार्याणां पायसं पृथक्॥ २७
तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः।संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः॥ २८
इति श्रीरामायणे बालकाण्डे पञ्चदशः सर्गः ॥ १५