॥ ॐ श्री गणपतये नमः ॥

१२ सर्गः

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत्अभिवाद्य वसिष्ठं न्यायतः प्रतिपूज्य

अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुंगव

यथा विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम्भवान्स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान्

वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतःतथेति राजानमब्रवीद्द्विजसत्तमः

करिष्ये सर्वमेवैतद्भवता यत्समर्थितम्ततोऽब्रवीद्द्विजान्वृद्धान्यज्ञकर्मसु निष्ठितान्

स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान्कर्मान्तिकाञ्शिल्पकारान्वर्धकीन्खनकानपि

गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान्तथा शुचीञ्शास्त्रविदः पुरुषान्सुबहुश्रुतान्

यज्ञकर्म समीहन्तां भवन्तो राजशासनात्इष्टका बहुसाहस्री शीघ्रमानीयतामिति

औपकार्याः क्रियन्तां राज्ञां बहुगुणान्विताःब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः

भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताःतथा पौरजनस्यापि कर्तव्या बहुविस्तराः१०

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताःतथा जानपदस्यापि जनस्य बहुशोभनम्११

दातव्यमन्नं विधिवत्सत्कृत्य तु लीलयासर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः१२

चावज्ञा प्रयोक्तव्या कामक्रोधवशादपियज्ञकर्मसु येऽव्यग्राः पुरुषाः शिल्पिनस्तथा१३

तेषामपि विशेषेण पूजा कार्या यथाक्रमम्यथा सर्वं सुविहितं किंचित्परिहीयते१४

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसाततः सर्वे समागम्य वसिष्ठमिदमब्रुवन्१५

यथोक्तं तत्करिष्यामो किंचित्परिहास्यतेततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत्१६

निमन्त्रयस्य नृपतीन्पृथिव्यां ये धार्मिकाःब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैव सहस्रशः१७

समानयस्व सत्कृत्य सर्वदेशेषु मानवान्मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम्१८

निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम्तमानय महाभागं स्वयमेव सुसत्कृतम्पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते१९

तथा काशिपतिं स्निग्धं सततं प्रियवादिनम्सद्वृत्तं देवसंकाशं स्वयमेवानयस्व २०

तथा केकयराजानं वृद्धं परमधार्मिकम्श्वशुरं राजसिंहस्य सपुत्रं तमिहानय२१

अङ्गेश्वरं महाभागं लोमपादं सुसत्कृतम्वयस्यं राजसिंहस्य तमानय यशस्विनम्२२

प्राचीनान्सिन्धुसौवीरान्सौराष्ठ्रेयांश्च पार्थिवान्दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व २३

सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतलेतानानय यथाक्षिप्रं सानुगान्सहबान्धवान्२४

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदाव्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान्२५

स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात्सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः२६

ते कर्मान्तिकाः सर्वे वसिष्ठाय धीमतेसर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम्२७

ततः प्रीतो द्विजश्रेष्ठस्तान्सर्वान्पुनरब्रवीत्अवज्ञया दातव्यं कस्यचिल्लीलयापि वाअवज्ञया कृतं हन्याद्दातारं नात्र संशयः२८

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितःबहूनि रत्नान्यादाय राज्ञो दशरथस्य २९

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत्उपयाता नरव्याघ्र राजानस्तव शासनात्३०

मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाःयज्ञियं कृतं राजन्पुरुषैः सुसमाहितैः३१

निर्यातु भवान्यष्टुं यज्ञायतनमन्तिकात्सर्वकामैरुपहृतैरुपेतं वै समन्ततः३२

तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोःशुभे दिवस नक्षत्रे निर्यातो जगतीपतिः३३

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाःऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा३४

इति श्रीरामायणे बालकाण्डे द्वादशः सर्गः१२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved