॥ ॐ श्री गणपतये नमः ॥

सर्गः ८३

In which Rāma frees the horse for his Naimiṣa sacrifice while monkeys and rākṣasas serve sages and shower beggars with gifts.

Rāma releases spotted horse under Lakṣmaṇa guard — Rāma reaches Naimiṣa and rejoices at ground — Kings arrive and Rāma honors them with lodgings — Bharata and Śatrughna supply food and garments — Monkeys serve brāhmaṇas and Vibhīṣaṇa serves sages — Monkeys and rākṣasas give freely to beggars — Sages marvel at endless gold, gems, and garments — Year-long flawless rite continues unabated

तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः। हयं लक्ष्मणसंपन्नं कृष्णसारं मुमोच ह॥ १ ऋत्विग्भिर्लक्ष्मणं सार्धमश्वे च विनियुज्य सः। ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिषम्॥ २ यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम्। प्रहर्षमतुलं लेभे श्रीमानिति च सोऽब्रवीत्॥ ३ नैमिषे वसतस्तस्य सर्व एव नराधिपाः। आजग्मुः सर्वराष्ट्रेभ्यस्तान्रामः प्रत्यपूजयत्॥ ४ उपकार्यान्महार्हांश्च पार्थिवानां महात्मनाम्। सानुगानां नरश्रेष्ठो व्यादिदेश महाद्युतिः॥ ५ अन्नपानानि वस्त्राणि सानुगानां महात्मनाम्। भरतः संददावाशु शत्रुघ्नसहितस्तदा॥ ६ वानराश्च महात्मानः सुग्रीवसहितास्तदा। विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम्॥ ७ विभीषणश्च रक्षोभिः स्रग्विभिर्बहुभिर्वृतः। ऋषीणामुग्रतपसां किंकरः पर्युपस्थितः॥ ८ एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्तत। लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता॥ ९ नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः। छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः। तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत॥ १० न कश्चिन्मलिनस्तत्र दीनो वाप्यथ वा कृशः। तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते॥ ११ ये च तत्र महात्मानो मुनयश्चिरजीविनः। नास्मरंस्तादृशं यज्ञं दानौघसमलंकृतम्॥ १२ रजतानां सुवर्णानां रत्नानामथ वाससाम्। अनिशं दीयमानानां नान्तः समुपदृश्यते॥ १३ न शक्रस्य न सोमस्य यमस्य वरुणस्य वा। ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः॥ १४ सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः। वासो धनानि कामिभ्यः पूर्णहस्ता ददुर्भृशम्॥ १५ ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः। संवत्सरमथो साग्रं वर्तते न च हीयते॥ १६ इति श्रीरामायणे उत्तरकाण्डे त्र्यशीतितमः सर्गः॥ ८३
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved