॥ ॐ श्री गणपतये नमः ॥

सर्गः ६३

In which Śatrughna journeys to Ayōdhyā, tells Rāma of Lavaṇa's death and new Mathurā, and stays five nights before returning.

Śatrughna leaves ministers and rides to Ayōdhyā — Śatrughna enters city and bows to Rāma — Śatrughna reports Lavaṇa slain and city settled — Śatrughna pleads he cannot live apart from Rāma — Rāma embraces him and forbids kṣatriya grief — Rāma bids him guard kingdom and visit often — Śatrughna stays five nights and returns escorted

ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम्। अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः॥ १ मन्त्रिणो बलमुख्यांश्च निवर्त्य च पुरोधसं। जगाम रथमुख्येन हययुक्तेन भास्वता॥ २ स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः। अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः॥ ३ स प्रविश्य पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः। प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः॥ ४ सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा। उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम्॥ ५ यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम्। हतः स लवणः पापः पुरी सा च निवेशिता॥ ६ द्वादशं च गतं वर्षं त्वां विना रघुनन्दन। नोत्सहेयमहं वस्तुं त्वया विरहितो नृप॥ ७ स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम। मातृहीनो यथा वत्सस्त्वां विना प्रवसाम्यहम्॥ ८ एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत्। मा विषादं कृथा वीर नैतत्क्षत्रियचेष्टितम्॥ ९ नावसीदन्ति राजानो विप्रवासेषु राघव। प्रजाश्च परिपाल्या हि क्षत्रधर्मेण राघव॥ १० काले काले च मां वीर अयोध्यामवलोकितुम्। आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव॥ ११ ममापि त्वं सुदयितः प्राणैरपि न संशयः। अवश्यं करणीयं च राज्यस्य परिपालनम्॥ १२ तस्मात्त्वं वस काकुत्स्थ पञ्चरात्रं मया सह। ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः॥ १३ रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम्। शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत्॥ १४ स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया। उष्य तत्र महेष्वासो गमनायोपचक्रमे॥ १५ आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम्। भरतं लक्ष्मणं चैव महारथमुपारुहत्॥ १६ दूरं ताभ्यामनुगतो लक्ष्मणेन महात्मना। भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा॥ १७ इति श्रीरामायणे उत्तरकाण्डे त्रिषष्टितमः सर्गः॥ ६३
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved