॥ ॐ श्री गणपतये नमः ॥

सर्गः ३८

In which boastful kings depart with gifts, Rāma shares them among monkeys and Rākṣasas, and all feast two happy months

Boastful kings shake earth heading homeward — Kings claim they would have slain Rāvaṇa — Kings send varied jewels gifts pleasing Rāma — Bharata Lakṣmaṇa Śatrughna bear gifts to Ayōdhyā — Princes deliver all jewels to great Rāma — Rāma grants all to Sugrīva Vibhīṣaṇa monkeys — Heroes bear gifts joyfully on heads arms — All drink wines eat meats taste fruits — All feast two months like moments devotedly

ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम्। कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत्॥ १ अक्षौहिणीसहस्रैस्ते समवेतास्त्वनेकशः। हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः॥ २ ऊचुश्चैव महीपाला बलदर्पसमन्विताः। न नाम रावणं युद्धे पश्यामः पुरतः स्थितम्॥ ३ भरतेन वयं पश्चात्समानीता निरर्थकम्। हता हि राक्षसास्तत्र पार्थिवैः स्युर्न संशयः॥ ४ रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च। सुखं पारे समुद्रस्य युध्येम विगतज्वराः॥ ५ एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः। कथयन्तः स्वराष्ट्राणि विविशुस्ते महारथाः॥ ६ यथापुराणि ते गत्वा रत्नानि विविधानि च। रामाय प्रियकामार्थमुपहारान्नृपा ददुः॥ ७ अश्वान्रत्नानि वस्त्राणि हस्तिनश्च मदोत्कटान्। चन्दनानि च दिव्यानि दिव्यान्याभरणानि च॥ ८ भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महारथः। आदाय तानि रत्नानि अयोध्यामगमन्पुनः॥ ९ आगताश्च पुरीं रम्यामयोध्यां पुरुषर्षभाः। ददुः सर्वाणि रत्नानि राघवाय महात्मने॥ १० प्रतिगृह्य च तत्सर्वं प्रीतियुक्तः स राघवः। सर्वाणि तानि प्रददौ सुग्रीवाय महात्मने॥ ११ विभीषणाय च ददौ ये चान्ये ऋक्षवानराः। हनूमत्प्रमुखा वीरा राक्षसाश्च महाबलाः॥ १२ ते सर्वे हृष्टमनसो रामदत्तानि तान्यथ। शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः॥ १३ पपुश्चैव सुगन्धीनि मधूनि विविधानि च। मांसानि च सुमृष्टानि फलान्यास्वादयन्ति च॥ १४ एवं तेषां निवसतां मासः साग्रो गतस्तदा। मुहूर्तमिव तत्सर्वं रामभक्त्या समर्थयन्॥ १५ रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः। राजभिश्च महावीर्यै राक्षसैश्च महाबलैः॥ १६ एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम्। वानराणां प्रहृष्टानां राक्षसानां च सर्वशः॥ १७ इति श्रीरामायणे उत्तरकाण्डे अष्टत्रिंशः सर्गः॥ ३८
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved