॥ ॐ श्री गणपतये नमः ॥

सर्गः ८६

In which Angada answers Mahaparshva arrow storm with whirling parigha and palm, then bursts his heart with a paternal fist.

Mahaparshva beheads and maims monkey chiefs — Angada surges like full moon sea — Angada fells Mahaparshva senseless from chariot — Jambavan smashes his horses and chariot — Mahaparshva revives and pierces Angada Jambavan Gavaksha — Angada hurls whirling parigha and strips bow helmet — Angada slaps his earringed ear with palm — Mahaparshva hurls an axe into Angada shoulder — Angada plants paternal fist upon his heart — Demon heart bursts and Ravana rages

महोदरे तु निहते महापार्श्वो महाबलः। अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः॥ १ स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः। पातयामास कायेभ्यः फलं वृन्तादिवानिलः॥ २ केषांचिदिषुभिर्बाहून्स्कन्धांश्चिछेद राक्षसः। वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत्॥ ३ तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः। विषादविमुखाः सर्वे बभूवुर्गतचेतसः॥ ४ निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्। वेगं चक्रे महाबाहुः समुद्र इव पर्वणि॥ ५ आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्। समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्॥ ६ स तु तेन प्रहारेण महापार्श्वो विचेतनः। ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि॥ ७ सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः। निष्पत्य सुमहावीर्यः स्वाद्यूथान्मेघसंनिभात्॥ ८ प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम्। अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम्॥ ९ मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः। अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत॥ १० जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे। ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः॥ ११ गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ। जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः॥ १२ तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसं। दूरस्थितस्य परिघं रविरश्मिसमप्रभम्॥ १३ द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान्। महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः॥ १४ स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः। धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत्॥ १५ तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्। तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले॥ १६ स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः। करेणैकेन जग्राह सुमहान्तं परश्वधम्॥ १७ तं तैलधौतं विमलं शैलसारमयं दृढम्। राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्॥ १८ तेन वामांसफलके भृशं प्रत्यवपातितम्। अङ्गदो मोक्षयामास सरोषः स परश्वधम्॥ १९ स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः। संवर्तयन्सुसंक्रुद्धः पितुस्तुल्यपराक्रमः॥ २० राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति। इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत्॥ २१ तेन तस्य निपातेन राक्षसस्य महामृधे। पफाल हृदयं चाशु स पपात हतो भुवि॥ २२ तस्मिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभे। अभवच्च महान्क्रोधः समरे रावणस्य तु॥ २३ इति श्रीरामायणे युद्धकाण्डे षडशीतितमः सर्गः॥ ८६
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved