॥ ॐ श्री गणपतये नमः ॥

सर्गः ७९

In which bloodied Lakṣmaṇa brings severed head news while Rāma embraces him and Suṣēṇa herb heals all

Bloodied Lakṣmaṇa rejoices slaying Indra conqueror — Lakṣmaṇa leads Jāmbavān Hanumān hosts leaning on Vibhīṣaṇa Hanumān — Lakṣmaṇa salutes Rāma standing like Upēndra reporting slaughter — Delighted Vibhīṣaṇa announces severed head to Rāma — Rāma seats Lakṣmaṇa on lap embraces smells head consoling — Rāma praises foeless feat and vows to slay sallying Rāvaṇa — Rāma declares Sītā and earth won through Lakṣmaṇa protector — Rāma bids Suṣēṇa swiftly heal darted Lakṣmaṇa Vibhīṣaṇa and wounded monkeys — Suṣēṇa herb scent heals Lakṣmaṇa then treats Vibhīṣaṇa and monkey chiefs — Rāma Sugrīva Vibhīṣaṇa Jāmbavān rejoice seeing Lakṣmaṇa well

रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः। बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे॥ १ ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान्। संनिवर्त्य महातेजास्तांश्च सर्वान्वनौकसः॥ २ आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ। विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः॥ ३ ततो राममभिक्रम्य सौमित्रिरभिवाद्य च। तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा। आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम्॥ ४ रावणस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना। न्यवेदयत रामाय तदा हृष्टो विभीषणः॥ ५ उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्। मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्। उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः॥ ६ कृतं परमकल्याणं कर्म दुष्करकारिणा। निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः। बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम्॥ ७ तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम्। बलेनावृत्य महता निहनिष्यामि दुर्जयम्॥ ८ त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे। न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे॥ ९ स तं भ्रातरमाश्वास्य पारिष्वज्य च राघवः। रामः सुषेणं मुदितः समाभाष्येदमब्रवीत्॥ १० सशल्योऽयं महाप्राज्ञः सौमित्रिर्मित्रवत्सलः। यथा भवति सुस्वस्थस्तथा त्वं समुपाचर। विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः॥ ११ कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम्। ये चान्येऽत्र च युध्यन्तः सशल्या व्रणिनस्तथा। तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया॥ १२ एवमुक्तः स रामेण महात्मा हरियूथपः। लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्॥ १३ स तस्य गन्धमाघ्राय विशल्यः समपद्यत। तदा निर्वेदनश्चैव संरूढव्रण एव च॥ १४ विभीषण मुखानां च सुहृदां राघवाज्ञया। सर्ववानरमुख्यानां चिकित्सां स तदाकरोत्॥ १५ ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः। सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः॥ १६ तथैव रामः प्लवगाधिपस्तदा विभीषणश्चर्क्षपतिश्च जाम्बवान्। अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्यः सुचिरं जहर्षिरे॥ १७ अपूजयत्कर्म स लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा। हृष्टा बभूवुर्युधि यूथपेन्द्रा निशम्य तं शक्रजितं निपातितम्॥ १८ इति श्रीरामायणे युद्धकाण्डे एकोनाशीतितमः सर्गः॥ ७९
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved