॥ ॐ श्री गणपतये नमः ॥

सर्गः १२

In which Rama vows never to abandon a friend-comer, recalls dove and Kandu law of refuge, and grants Vibhishana fearlessness

Rama praises Hanuman and declares intent toward Vibhishana — Rama vows never to abandon friend-comer despite faults — Sugriva endorses Vibhishana purity from signs and conduct — Rama claims power to kill demons with fingertip — Rama recalls dove honoring surrendered enemy with flesh — Rama recites Kandu verse protecting suppliant abandoning life — Rama vows safety to once saying I am yours — Rama grants fearlessness and summons Vibhishana through Sugriva — Rama meets Vibhishana swiftly as Indra meets Garuda

अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह। प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्॥ १ ममापि तु विवक्षास्ति काचित्प्रति विभीषणम्। श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः॥ २ मित्रभावेन संप्राप्तं न त्यजेयं कथंचन। दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम्॥ ३ रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः। प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः॥ ४ किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे। यत्त्वमार्यं प्रभाषेथाः सत्त्ववान्सपथे स्थितः॥ ५ मम चाप्यन्तरात्मायं शुद्धिं वेत्ति विभीषणम्। अनुमनाच्च भावाच्च सर्वतः सुपरीक्षितः॥ ६ तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव। विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः॥ ७ स सुग्रीवस्य तद्वाक्यं रामः श्रुत्वा विमृश्य च। ततः शुभतरं वाक्यमुवाच हरिपुंगवम्॥ ८ सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः। सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथंचन॥ ९ पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान्। अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर॥ १० श्रूयते हि कपोतेन शत्रुः शरणमागतः। अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः॥ ११ स हि तं प्रतिजग्राह भार्या हर्तारमागतम्। कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः॥ १२ ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा। शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना॥ १३ बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्। न हन्यादानृशंस्यार्थमपि शत्रुं परं पत॥ १४ आर्तो वा यदि वा दृप्तः परेषां शरणं गतः। अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना॥ १५ स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति। स्वया शक्त्या यथातत्त्वं तत्पापं लोकगर्हितम्॥ १६ विनष्टः पश्यतस्तस्य रक्षिणः शरणागतः। आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः॥ १७ एवं दोषो महानत्र प्रपन्नानामरक्षणे। अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम्॥ १८ करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्। धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये॥ १९ सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम॥ २० आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया। विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्॥ २१ ततस्तु सुग्रीववचो निशम्य त द्धरीश्वरेणाभिहितं नरेश्वरः। विभीषणेनाशु जगाम संगमं पतत्रिराजेन यथा पुरंदरः॥ २२ इति श्रीरामायणे युद्धकाण्डे द्वादशः सर्गः॥ १२
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved