॥ ॐ श्री गणपतये नमः ॥

सर्गः ६

In which Rāvaṇa, shamed by Hanumān havoc, preaches three grades of men and counsels, then asks his chiefs how to meet Rāma

Rāvaṇa sees Hanumān havoc ashamed — Rāvaṇa reports pierced Laṅkā and slain champions — Rāvaṇa asks capable beneficial next step — Rāvaṇa declares victory rooted in counsel — Rāvaṇa defines best middle lowest men — Rāvaṇa defines best middle lowest counsels — Rāvaṇa warns Rāma nears crossing surely — Rāvaṇa seeks counsel for city and army

लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम्। राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना। अब्रवीद्राक्षसान्सर्वान्ह्रिया किंचिदवाङ्मुखः॥ १ धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी। तेन वानरमात्रेण दृष्टा सीता च जानकी॥ २ प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः। आविला च पुरी लङ्का सर्वा हनुमता कृता॥ ३ किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम्। उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत्॥ ४ मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः। तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः॥ ५ त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः। तेषां तु समवेतानां गुणदोषं वदाम्यहम्॥ ६ मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये। मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः॥ ७ सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत्। दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम्॥ ८ एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः। एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्॥ ९ गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम्। करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः॥ १० यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः। एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः॥ ११ ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा। मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम्॥ १२ बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये। पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः॥ १३ अन्योन्यमतिमास्थाय यत्र संप्रतिभाष्यते। न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते॥ १४ तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः। कार्यं संप्रतिपद्यन्तामेतत्कृत्यतमं मम॥ १५ वानराणां हि वीराणां सहस्रैः परिवारितः। रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः॥ १६ तरिष्यति च सुव्यक्तं राघवः सागरं सुखम्। तरसा युक्तरूपेण सानुजः सबलानुगः॥ १७ अस्मिन्नेवंगते कार्ये विरुद्धे वानरैः सह। हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम॥ १८ इति श्रीरामायणे युद्धकाण्डे षष्ठः सर्गः॥ ६
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved