॥ ॐ श्री गणपतये नमः ॥

सर्गः २१

In which Ravana departs after charging the guards, while Ekajata and Harijata praise his birth and triumphs to win Sita.

Ravana instructs rakshasis and exits — Rakshasis rush Sita with harsh words — Ekajata recites Ravana divine birth — Harijata praises his victories over gods — Rakshasis promise harem honor and threaten death

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः। संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह॥ १ निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते। राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः॥ २ ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः। परं परुषया वाचा वैदेहीमिदमब्रुवन्॥ ३ पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः। दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे॥ ४ ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत्। आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम्॥ ५ प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः। मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः॥ ६ पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः। नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः॥ ७ तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि। मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे॥ ८ ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्। विवृत्य नयने कोपान्मार्जारसदृशेक्षणा॥ ९ येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः। तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि॥ १० वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः। बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे॥ ११ प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः। सर्वासां च महाभागां त्वामुपैष्यति रावणः॥ १२ समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्। अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः॥ १३ असकृद्देवता युद्धे नागगन्धर्वदानवाः। निर्जिताः समरे येन स ते पार्श्वमुपागतः॥ १४ तस्य सर्वसमृद्धस्या रावणस्य महात्मनः। किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे॥ १५ यस्य सूर्यो न तपति भीतो यस्य च मारुतः। न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि॥ १६ पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात्। शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति॥ १७ तस्य नैरृतराजस्य राजराजस्य भामिनि। किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि॥ १८ साधु ते तत्त्वतो देवि कथितं साधु भामिनि। गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि॥ १९ इति श्रीरामायणे सुन्दरकाण्डे एकविंशतितमः सर्गः॥ २१
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved