॥ ॐ श्री गणपतये नमः ॥

सर्गः ६

In which Hanumān admires Maya-built Puṣpaka glowing like heaven yet finds no Jānakī and sorrows

Hanumān views gold-vaidūrya latticed mansion like lightning cloud — Hanumān sees armories moon terraces and Maya-built houses — Hanumān admires peerless Puṣpaka like heaven on earth — Hanumān notes crafted geese elephants and lotus Lakṣmī — Hanumān roams Rāvaṇa-guarded city but misses Jānakī and sorrows

स वेश्मजालं बलवान्ददर्श व्यासक्तवैदूर्यसुवर्णजालम्। यथा महत्प्रावृषि मेघजालं विद्युत्पिनद्धं सविहंगजालम्॥ १ निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः। मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः॥ २ गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि। सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि॥ ३ तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि। महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि॥ ४ ततो ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम्। रक्षोऽधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम्॥ ५ महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम्। नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसावकीर्णम्॥ ६ नारीप्रवेकैरिव दीप्यमानं तडिद्भिरम्भोदवदर्च्यमानम्। हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम्॥ ७ यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम्। ददर्श युक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम्॥ ८ मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः। वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्रपूर्णम्॥ ९ कृतानि वेश्मानि च पाण्डुराणि तथा सुपुष्पा अपि पुष्करिण्यः। पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि॥ १० पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विवर्धमानम्। वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम्॥ ११ कृताश्च वैदूर्यमया विहंगा रूप्यप्रवालैश्च तथा विहंगाः। चित्राश्च नानावसुभिर्भुजंगा जात्यानुरूपास्तुरगाः शुभाङ्गाः॥ १२ प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः। कामस्य साक्षादिव भान्ति पक्षाः कृता विहंगाः सुमुखाः सुपक्षाः॥ १३ नियुज्यमानाश्च गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः। बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता॥ १४ इतीव तद्गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुशोभनम्। पुनश्च तत्परमसुगन्धि सुन्दरं हिमात्यये नगमिव चारुकन्दरम्॥ १५ ततः स तां कपिरभिपत्य पूजितां चरन्पुरीं दशमुखबाहुपालिताम्। अदृश्य तां जनकसुतां सुपूजितां सुदुःखितां पतिगुणवेगनिर्जिताम्॥ १६ ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः। अपश्यतोऽभवदतिदुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः॥ १७ इति श्रीरामायणे सुन्दरकाण्डे षष्ठः सर्गः॥ ६
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved