॥ ॐ श्री गणपतये नमः ॥

सर्गः ४६

In which eastern, northern, and western hosts return Sītāless to Prasravaṇa, reporting thorough search, and rest hope on Hanumān.

Captains search lakes rivers cities mountains forests all around — Monkeys bed nightly under fruitful trees during quest — Vinata returns eastward Sītāless to Prasravaṇa hopeless — Śatabali returns northward with army Sītāless — Suṣēṇa returns westward after full month greeting Sugrīva — Returners report searched mountains cities seas caves thickets — Returners report huge beasts searched slain dense lands rescanned — Returners declare Hanumān southbound will find Maithilī

दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः। व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा॥ १ सरांसि सरितः कक्षानाकाशं नगराणि च। नदीदुर्गांस्तथा शैलान्विचिन्वन्ति समन्ततः॥ २ सुग्रीवेण समाख्यातान्सर्वे वानरयूथपाः। प्रदेशान्प्रविचिन्वन्ति सशैलवनकाननान्॥ ३ विचिन्त्य दिवसं सर्वे सीताधिगमने धृताः। समायान्ति स्म मेदिन्यां निशाकालेशु वानराः॥ ४ सर्वर्तुकांश्च देशेषु वानराः सफलान्द्रुमान्। आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते॥ ५ तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः। कपिराजेन संगम्य निराशाः कपियूथपाः॥ ६ विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह। अदृष्ट्वा विनतः सीतामाजगाम महाबलः॥ ७ उत्तरां तु दिशं सर्वां विचित्य स महाकपिः। आगतः सह सैन्येन वीरः शतबलिस्तदा॥ ८ सुषेणः पश्चिमामाशां विचित्य सह वानरैः। समेत्य मासे संपूर्णे सुग्रीवमुपचक्रमे॥ ९ तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च। आसीनं सह रामेण सुग्रीवमिदमब्रुवन्॥ १० विचिताः पर्वताः सर्वे वनानि नगराणि च। निम्नगाः सागरान्ताश्च सर्वे जनपदास्तथा॥ ११ गुहाश्च विचिताः सर्वा यास्त्वया परिकीर्तिताः। विचिताश्च महागुल्मा लताविततसंतताः॥ १२ गहनेषु च देशेषु दुर्गेषु विषमेषु च। सत्त्वान्यतिप्रमाणानि विचितानि हतानि च। ये चैव गहना देशा विचितास्ते पुनः पुनः॥ १३ उदारसत्त्वाभिजनो महात्मा स मैथिलीं द्रक्ष्यति वानरेन्द्रः। दिशं तु यामेव गता तु सीता तामास्थितो वायुसुतो हनूमान्॥ १४ इति श्रीरामायणे किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः॥ ४६
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved