॥ ॐ श्री गणपतये नमः ॥

सर्गः ७

In which Sugriva pledges Ravana slaughter, preaches courage over grief, and Rama swears truth and aid.

Sugriva swears to kill Ravana and please Rama — Sugriva bids Rama recall steadfast courage — Sugriva cites bearing his own wife-loss calmly — Sugriva folds hands begging manliness over tears — Rama wipes tears and praises such a friend — Rama swears he never spoke untruth — Rama bids Sugriva search Sita and command him freely

एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः। अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः॥ १ न जाने निलयं तस्य सर्वथा पापरक्षसः। सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम्॥ २ सत्यं तु प्रतिजानामि त्यज शोकमरिंदम। करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम्॥ ३ रावणं सगणं हत्वा परितोष्यात्मपौरुषम्। तथास्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि॥ ४ अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर। त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम्॥ ५ मयापि व्यसनं प्राप्तं भार्या हरणजं महत्। न चाहमेवं शोचामि न च धैर्यं परित्यजे॥ ६ नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन्। महात्मा च विनीतश्चा किं पुनर्धृतिमान्भवान्॥ ७ बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि। मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि॥ ८ व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे। विमृशन्वै स्वया बुद्ध्या धृतिमान्नावसीदति॥ ९ बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते। स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले॥ १० एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये। पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि॥ ११ ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम्। तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि॥ १२ हितं वयस्य भावेन ब्रूहि नोपदिशामि ते। वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि॥ १३ मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः। मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत्॥ १४ प्रकृतिष्ठस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः। संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत्॥ १५ कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च। अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया॥ १६ एष च प्रकृतिष्ठोऽहमनुनीतस्त्वया सखे। दुर्लभो हीदृशो बन्धुरस्मिन्काले विशेषतः॥ १७ किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे। राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः॥ १८ मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम्। वर्षास्विव च सुक्षेत्रे सर्वं संपद्यते तव॥ १९ मया च यदिदं वाक्यमभिमानात्समीरितम्। तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्॥ २० अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन। एतत्ते प्रतिजानामि सत्येनैव शपामि ते॥ २१ ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह। राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः॥ २२ महानुभावस्य वचो निशम्य हरिर्नराणामृषभस्य तस्य। कृतं स मेने हरिवीर मुख्य स्तदा स्वकार्यं हृदयेन विद्वान्॥ २३ इति श्रीरामायणे किष्किन्धाकाण्डे सप्तमः सर्गः॥ ७
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved