॥ ॐ श्री गणपतये नमः ॥

सर्गः ५०

In which Rāvaṇa grips wailing Sītā by hair aloft while Brahmā marks his doom, blossoms anklets and necklaces shower earth, and sun beasts and mountains grieve

Rāvaṇa sees fallen Jaṭāyu fluttering near hut — Sītā laments over stricken vulture kinsman — Rāvaṇa seizes Sītā hair dragging past trees — Darkness shrouds worlds at outrage — Brahmā declares deed accomplished as seers react — Sītā shines like lightning shedding blossoms — Anklet necklace and jewels shower earth — Sun dims beasts birds and mountains mourn

तमल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः। ददर्श गृध्रं पतितं समीपे राघवाश्रमात्॥ १ सा तु ताराधिपमुखी रावणेन समीक्ष्य तम्। गृध्रराजं विनिहतं विललाप सुदुःखिता॥ २ निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम्। अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते॥ ३ न नूनं राम जानासि महद्व्यसनमात्मजः। धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः॥ ४ त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना। सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके॥ ५ तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत्। अभ्यधावत वैदेहीं रावणो राक्षसाधिपः॥ ६ तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान्। मुञ्च मुञ्चेति बहुशः प्रवदन्राक्षसाधिपः॥ ७ क्रोशन्तीं राम रामेति रामेण रहितां वने। जीवितान्ताय केशेषु जग्राहान्तकसंनिभः॥ ८ प्रधर्षितायां वैदेह्यां बभूव सचराचरम्। जगत्सर्वममर्यादं तमसान्धेन संवृतम्॥ ९ दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा। कृतं कार्यमिति श्रीमान्व्याजहार पितामहः॥ १० प्रहृष्टा व्यथिताश्चासन्सर्वे ते परमर्षयः। दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः॥ ११ स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च। जगामाकाशमादाय रावणो राक्षसाधिपः॥ १२ तप्ताभरणसर्वाङ्गी पीतकौशेयवासनी। रराज राजपुत्री तु विद्युत्सौदामनी यथा॥ १३ उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः। अधिकं परिबभ्राज गिरिर्दीप इवाग्निना॥ १४ तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च। पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम्॥ १५ तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम्। बभौ चादित्यरागेण ताम्रमभ्रमिवातपे॥ १६ तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम्। न रराज विना रामं विनालमिव पङ्कजम्॥ १७ बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः। सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम्। शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम्॥ १८ रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम्। सुनासं चारुताम्रौष्ठमाकाषे हाटकप्रभम्॥ १९ राक्षसेन्द्रसमाधूतं तस्यास्तद्वचनं शुभम्। शुशुभे न विना रामं दिवा चन्द्र इवोदितः॥ २० सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम्। शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता॥ २१ सा पद्मगौरी हेमाभा रावणं जनकात्मजा। विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा॥ २२ तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः। बभूव विमलो नीलः सघोष इव तोयदः॥ २३ उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः। सीताया ह्रियमाणायाः पपात धरणीतले॥ २४ सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः। समाधूता दशग्रीवं पुनरेवाभ्यवर्तत॥ २५ अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम्। नक्षत्रमालाविमला मेरुं नगमिवोत्तमम्॥ २६ चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम्। विद्युन्मण्डलसंकाशं पपात मधुरस्वनम्॥ २७ तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम्। प्राशोभयत वैदेही गजं कष्येव काञ्चनी॥ २८ तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा। जहाराकाशमाविश्य सीतां वैश्रवणानुजः॥ २९ तस्यास्तान्यग्निवर्णानि भूषणानि महीतले। सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात्॥ ३० तस्याः स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिः। वैदेह्या निपतन्भाति गङ्गेव गगनाच्च्युता॥ ३१ उत्पात वाताभिहता नानाद्विज गणायुताः। मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः॥ ३२ नलिन्यो ध्वस्तकमलास्त्रस्तमीनजले चराः। सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम्॥ ३३ समन्तादभिसंपत्य सिंहव्याघ्रमृगद्विजाः। अन्वधावंस्तदा रोषात्सीताच्छायानुगामिनः॥ ३४ जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहवः। सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः॥ ३५ ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः। प्रविध्वस्तप्रभः श्रीमानासीत्पाण्डुरमण्डलः॥ ३६ नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता। यत्र रामस्य वैदेहीं भार्यां हरति रावणः॥ ३७ इति सर्वाणि भूतानि गणशः पर्यदेवयन्। वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः॥ ३८ उद्वीक्ष्योद्वीक्ष्य नयनैरास्रपाताविलेक्षणाः। सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः॥ ३९ विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम्। तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम्॥ ४० अवेक्षमाणां बहुषो वैदेहीं धरणीतलम्। स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम्। जहारात्मविनाशाय दशग्रीवो मनस्विनाम्॥ ४१ ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली। अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्रा भयभारपीडिता॥ ४२ इति श्रीरामायणे अरण्यकाण्डे पञ्चाशः सर्गः॥ ५०
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved