॥ ॐ श्री गणपतये नमः ॥

सर्गः २०

In which Śūrpaṇakhā mourns fourteen slain heroes, demands Rāma's death threatening suicide, and doubts Khara facing Rāma

Khara consoles weeping Śūrpaṇakhā and asks cause — Śūrpaṇakhā reports fourteen heroes slain by Rāma — Śūrpaṇakhā confesses terror and seeks refuge — Śūrpaṇakhā begs Khara to kill Daṇḍaka thorn Rāma — Śūrpaṇakhā threatens suicide before Khara if refused — Śūrpaṇakhā doubts Khara can face bowed Rāma — Śūrpaṇakhā urges flight from Janasthāna fearing Rāma brilliance — Śūrpaṇakhā names Rāma Lakṣmaṇa valor and her disfigurement

स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः। उवाच व्यक्तता वाचा तामनर्थार्थमागताम्॥ १ मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः। त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः॥ २ भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः। घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम॥ ३ किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः। हा नाथेति विनर्दन्ती सर्पवद्वेष्टसे क्षितौ॥ ४ अनाथवद्विलपसि किं नु नाथे मयि स्थिते। उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लव्यं त्यज्यतामिह॥ ५ इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता। विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत्॥ ६ प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश। निहन्तुं राघवं घोरा मत्प्रियार्थं सलक्ष्मणम्॥ ७ ते तु रामेण सामर्षाः शूलपट्टिशपाणयः। समरे निहताः सर्वे सायकैर्मर्मभेदिभिः॥ ८ तान्भूमौ पतितान्दृष्ट्वा क्षणेनैव महाबलान्। रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम॥ ९ सास्मि भीता समुद्विग्ना विषण्णा च निशाचर। शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी॥ १० विषादनक्राध्युषिते परित्रासोर्मिमालिनि। किं मां न त्रायसे मग्नां विपुले शोकसागरे॥ ११ एते च निहता भूमौ रामेण निशितैः शरैः। ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः॥ १२ मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च। रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर। दण्डकारण्यनिलयं जहि राक्षसकण्टकम्॥ १३ यदि रामं ममामित्रमद्य त्वं न वधिष्यसि। तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा॥ १४ बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे। स्थातुं प्रतिमुखे शक्तः सचापस्य महारणे॥ १५ शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः। मानुषौ यन्न शक्नोषि हन्तुं तौ रामलक्ष्मणौ॥ १६ अपयाहि जनस्थानात्त्वरितः सहबान्धवः। निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह॥ १७ रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि। स हि तेजःसमायुक्तो रामो दशरथात्मजः। भ्राता चास्य महावीर्यो येन चास्मि विरूपिता॥ १८ इति श्रीरामायणे अरण्यकाण्डे विंशतितमः सर्गः॥ २०
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved