॥ ॐ श्री गणपतये नमः ॥

सर्गः ९

In which Rama answers Sita that pity-seeking sages won his sworn word, truth forbids recall, and pledged brahmanas outweigh life itself.

Rama calls Sita's words wholesome and lineage-worthy — Rama recalls kshatriya bow guards distress cries — Rama tells sages sought refuge from man-eaters — Sages plead assaults at homa and parvan times — Sages can slay but spare long-earned tapas — Rama pledged full protection before brahmanas — Rama prizes truth above life Sita Lakshmana — Rama pleased proceeds to lovely penance-groves

वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया। श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम्॥ १ हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः। कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे॥ २ किं तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः। क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति॥ ३ ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः। मां सीते स्वयमागम्य शरण्याः शरणं गताः॥ ४ वसन्तो धर्मनिरता वने मूलफलाशनाः। न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः॥ ५ काले काले च निरता नियमैर्विविधैर्वने। भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः॥ ६ ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः। अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः॥ ७ मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्। कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम्॥ ८ प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुला। यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः। किं करोमीति च मया व्याहृतं द्विजसंनिधौ॥ ९ सर्वैरेव समागम्य वागियं समुदाहृता। राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः। अर्दिताः स्म भृशं राम भवान्नस्त्रातुमर्हति॥ १० होमकाले तु संप्राप्ते पर्वकालेषु चानघ। धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः॥ ११ राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्। गतिं मृगयमाणानां भवान्नः परमा गतिः॥ १२ कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान्। चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम्॥ १३ बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव। तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः॥ १४ तदर्द्यमानान्रक्षोभिर्दण्डकारण्यवासिभिः। रक्षनस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने॥ १५ मया चैतद्वचः श्रुत्वा कार्त्स्न्येन परिपालनम्। ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे॥ १६ संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्। मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा॥ १७ अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्। न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः॥ १८ तदवश्यं मया कार्यमृषीणां परिपालनम्। अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः॥ १९ मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः। परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते। सदृशं चानुरूपं च कुलस्य तव शोभने॥ २० इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिल राजपुत्रीम्। रामो धनुष्मान्सहलक्ष्मणेन जगाम रम्याणि तपोवनानि॥ २१ इति श्रीरामायणे अरण्यकाण्डे नवमः सर्गः॥ ९
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved