॥ ॐ श्री गणपतये नमः ॥

सर्गः ९२

In which Bharata, leaving his army behind, searches the woods on foot and rejoices to see Rāma's fire-banner smoke

Bharata stations army and proceeds on foot — Bharata orders forest search with Śatrughna — Bharata vows no peace before seeing Rāma — Bharata praises Sītā and blessed Citrakūṭa — Bharata enters the great forest — Bharata sights Rāma's sacrificial smoke — Bharata rejoices and advances with Guha

निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः। अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम्॥ १ निविष्ट मात्रे सैन्ये तु यथोद्देशं विनीतवत्। भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत्॥ २ क्षिप्रं वनमिदं सौम्य नरसंघैः समन्ततः। लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि॥ ३ यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्। वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति॥ ४ यावन्न चन्द्रसंकाशं द्रक्ष्यामि शुभमाननम्। भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति॥ ५ यावन्न चरणौ भ्रातुः पार्थिव व्यञ्जनान्वितौ। शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति॥ ६ यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः। अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति॥ ७ कृतकृत्या महाभागा वैदेही जनकात्मजा। भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति॥ ८ सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः। यस्मिन्वसति काकुत्स्थः कुबेर इवनन्दने॥ ९ कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्। यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः॥ १० एवमुक्त्वा महातेजा भरतः पुरुषर्षभः। पद्भ्यामेव महातेजाः प्रविवेश महद्वनम्॥ ११ स तानि द्रुमजालानि जातानि गिरिसानुषु। पुष्पिताग्राणि मध्येन जगाम वदतां वरः॥ १२ स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम्। रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम्॥ १३ तं दृष्ट्वा भरतः श्रीमान्मुमोद सहबान्धवः। अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः॥ १४ स चित्रकूटे तु गिरौ निशाम्य रामाश्रमं पुण्यजनोपपन्नम्। गुहेन सार्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा॥ १५ इति श्रीरामायणे अयोध्याकाण्डे द्विनवतितमः सर्गः॥ ९२
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved