॥ ॐ श्री गणपतये नमः ॥

सर्गः ७४

In which skilled workmen clear forests, level ground, dig tanks and wells, and raise moated camps as the highway reaches the Gaṅgā

Skilled diggers architects and tree-cutters advance — Vast crowd rushes like ocean at full moon — Workers clear creepers stumps and fell trees — Workers plant trees level pits and fill wells — Workers raise tanks wells and altar-ringed ponds — Sandal-sprinkled flower-decked road shines like heaven — Overseers raise moated bannered camps like Indra city — Adorned highway reaches cool fish-filled Gaṅgā

अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः। स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा॥ १ कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः। तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः॥ २ कूपकाराः सुधाकारा वंशकर्मकृतस्तथा। समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे॥ ३ स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान्। अशोभत महावेगः सागरस्येव पर्वणि॥ ४ ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः। करणैर्विविधोपेतैः पुरस्तात्संप्रतस्थिरे॥ ५ लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च। जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान्द्रुमान्॥ ६ अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन्। केचित्कुठारैष्टङ्कैश्च दात्रैश्छिन्दन्क्वचित्क्वचित्॥ ७ अपरे वीरणस्तम्बान्बलिनो बलवत्तराः। विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः॥ ८ अपरेऽपूरयन्कूपान्पांसुभिः श्वभ्रमायतम्। निम्नभागांस्तथा केचित्समांश्चक्रुः समन्ततः॥ ९ बबन्धुर्बन्धनीयांश्च क्षोद्यान्संचुक्षुदुस्तदा। बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरास्तदा॥ १० अचिरेणैव कालेन परिवाहान्बहूदकान्। चक्रुर्बहुविधाकारान्सागरप्रतिमान्बहून्। उदपानान्बहुविधान्वेदिका परिमण्डितान्॥ ११ ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः। मत्तोद्घुष्टद्विजगणः पताकाभिरलंकृतः॥ १२ चन्दनोदकसंसिक्तो नानाकुसुमभूषितः। बह्वशोभत सेनायाः पन्थाः स्वर्गपथोपमः॥ १३ आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः। रमणीयेषु देशेषु बहुस्वादुफलेषु च॥ १४ यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः। भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम्॥ १५ नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः। निवेशं स्थापयामासुर्भरतस्य महात्मनः॥ १६ बहुपांसुचयाश्चापि परिखापरिवारिताः। तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः॥ १७ प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः। पताका शोभिताः सर्वे सुनिर्मितमहापथाः॥ १८ विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः। समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः॥ १९ जाह्नवीं तु समासाद्य विविधद्रुम काननाम्। शीतलामलपानीयां महामीनसमाकुलाम्॥ २० सचन्द्रतारागणमण्डितं यथा नभःक्षपायाममलं विराजते। नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः॥ २१ इति श्रीरामायणे अयोध्याकाण्डे चतुस्सप्ततितमः सर्गः॥ ७४
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved