॥ ॐ श्री गणपतये नमः ॥

सर्गः १५

In which Rāma crosses agaru-fumed capital through blessings, enters his father's house, and leaves citizens awaiting his return

Rāma beholds crowded city from chariot — Rāma traverses agaru-fumed merchant highway — Citizens shower blessings and praise Rāma rule — Citizens deem Rāma consecration highest joy — None can withdraw eyes from passing Rāma — Rāma shows compassion to four varṇas — Rāma enters shining paternal palace — Rāma dismisses retinue for inner harem — Crowd awaits his return like ocean for moon

स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः। अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम्॥ १ स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्। राजमार्गं ययौ रामो मध्येनागरुधूपितम्॥ २ शोभमानमसंबाधं तं राजपथमुत्तमम्। संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि॥ ३ आशीर्वादान्बहूञ्शृण्वन्सुहृद्भिः समुदीरितान्। यथार्हं चापि संपूज्य सर्वानेव नरान्ययौ॥ ४ पितामहैराचरितं तथैव प्रपितामहैः। अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय॥ ५ यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः। ततः सुखतरं सर्वे रामे वत्स्याम राजनि॥ ६ अलमद्य हि भुक्तेन परमार्थैरलं च नः। यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्॥ ७ अतो हि न प्रियतरं नान्यत्किंचिद्भविष्यति। यथाभिषेको रामस्य राज्येनामिततेजसः॥ ८ एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः। आत्मसंपूजनीः शृण्वन्ययौ रामो महापथम्॥ ९ न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्। नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे॥ १० सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम्। चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः॥ ११ स राजकुलमासाद्य महेन्द्रभवनोपमम्। राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्॥ १२ स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः। संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमभ्यगात्॥ १३ ततः प्रविष्टे पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे। प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चन्द्रमसः सरित्पतिः॥ १४ इति श्रीरामायणे अयोध्याकाण्डे पञ्चदशः सर्गः॥ १५
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved