॥ ॐ श्री गणपतये नमः ॥

सर्गः २०

In which Viśvāmitra rages at Daśaratha breaking promise, earth trembles, and Vasiṣṭha praises his weapons to urge sending Rāma

Viśvāmitra rebukes Daśaratha for breaking his promise — Viśvāmitra threatens to depart and leave king with kin — Earth shakes and fear enters gods at his wrath — Vasiṣṭha urges Daśaratha to keep promise and uphold dharma — Vasiṣṭha declares Rākṣasas cannot harm Rāma guarded by Viśvāmitra — Vasiṣṭha praises Viśvāmitra as embodied dharma knowing all weapons — Kr̥śāśva sons come as fifty weapons from Jayā and fifty Saṃhāras from Suprabhā — Vasiṣṭha bids king send Rāma without doubt

तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्। समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम्॥ १ पूर्ह्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि। रागवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः॥ २ यदिदं ते क्षमं राजन्गमिष्यामि यथागतम्। मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः॥ ३ तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः। चचाल वसुधा कृत्स्ना विवेश च भयं सुरान्॥ ४ त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः। नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्॥ ५ इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः। धृतिमान्सुव्रतः श्रीमान्न धर्मं हातुमर्हसि॥ ६ त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः। स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि॥ ७ संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव। इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय॥ ८ कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः। गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा॥ ९ एष विग्रहवान्धर्म एष वीर्यवतां वरः। एष बुद्ध्याधिको लोके तपसश्च परायणम्॥ १० एषोऽस्त्रान्विविधान्वेत्ति त्रैलोक्ये सचराचरे। नैनमन्यः पुमान्वेत्ति न च वेत्स्यन्ति केचन॥ ११ न देवा नर्षयः केचिन्नासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः॥ १२ सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः। कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति॥ १३ तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः। नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः॥ १४ जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे। ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम्॥ १५ पञ्चाशतं सुताँल्लेभे जया नाम वरान्पुरा। वधायासुरसैन्यानाममेयान्कामरूपिणः॥ १६ सुप्रभाजनयच्चापि पुत्रान्पञ्चाशतं पुनः। संहारान्नाम दुर्धर्षान्दुराक्रामान्बलीयसः॥ १७ तानि चास्त्राणि वेत्त्येष यथावत्कुशिकात्मजः। अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित्॥ १८ एवं वीर्यो महातेजा विश्वामित्रो महातपाः। न रामगमने राजन्संशयं गन्तुमर्हसि॥ १९ इति श्रीरामायणे बालकाण्डे विंशतितमः सर्गः॥ २०
वाल्मीकिरामायणम् Baroda Critical Edition CC0. No rights reserved